कोरोणव्यापनात् प्रतिरोधाय केरलेषु विद्यालयाः पिहिताः।
तिरुवनन्दपुरम्> केरलेषु अपि कोविद्१९ विषाणुः व्याप्यते इत्यनेन रोगव्यापन प्रतिरोधमुद्दिश्य विरामः ख्यापितः। विधानसभया निर्णयः स्वीकृतः। मार्च् मासस्य ३१ दिनाङ्कपर्यन्तम् अस्ति विरामः । किन्तु ८, ९, १०, ११, १२ कक्ष्यायाः छात्रेभ्यः परीक्षाः प्रचलिष्यन्ति। १ कक्ष्यातः ७ पर्यन्तं परीक्षा न भविष्यति।