विद्युत्कोशनिर्माणाय उपकारकं लिथियम् इति लोहमूलकं भारतात् उपलब्धम्।
नवदिल्ली> विद्युत्वाहनेषु उपयुज्यमानं विद्युक्तोशनिर्माणाय उपकारकं लिथियं इति लोहमूलकम् अधिकतया उपलब्धम्। बङ्गलूरुस्थे माण्ड्या प्रदेशः एव लोहमूलकस्य निक्षेपस्थानम् इत्यस्ति आवेदनम्। भारतस्य कणिकोर्ज आयोगस्य आट्टोमिक् मिनरल् डयरक्टरेट्ट् इत्यस्य विज्ञानिकाः आवेदनमिदं बहिः प्रकाशितवन्तः। विश्वे अतिदुर्लभं भवति अयं लोहःI १४१०० टण् मितः भवति लिथियस्य निक्षेपः