उदग्रयानदुर्घटनया ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः मारिताः।
ताय्पेयि> उदग्रयानं पतित्वा ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः च मारिताः। गुरुवासरे प्रभाते पर्वतप्रदेशे डयमाने सन्दर्भे असीत् 'ब्लाक् होक्' इत्यस्य उदग्रयानस्य पतनम्। सेनाध्यक्षः षेन् यि मिङ् अन्ये सप्त सैनिक उद्योगिनः च दुर्घटनया व्यापादिताः इति मध्याह्ने व्योमसेनानिर्देशकेन उक्तम्। जनुवरिमासस्य ११ दिनाङ्के राष्ट्रपतिः तथा शासनसभाङ्गानां पदेभ्यः च निर्वाचन-प्रक्रमान् प्रचाल्यमाणे सन्दर्भे आसीत् इयं दुर्घटना।