६०० सस्यानि ९१ चित्रशालभाः, ५४ पक्षिवर्गाः, इयं छात्राणां वनपाठशाला।
तिरुवनन्तपुरम्> श्रीकण्ठपुरम् सर्वकारीय उच्चतरविद्यालये जैववैविध्य - उद्याने दृश्यानि विशिष्टानि सन्ति। षट् शतं (६००) सस्यानि एकनवतिः (९१) शलभवर्गाः, चतुष्पञ्चाशत् पक्षिवर्गाः एवम् अनेकेषां जीविनां नामवैजात्येन सूचिका दीर्घा अस्ति। श्रीकण्ठपुरम् बस् निस्थानतः सार्धत्रि- कि.मी मात्रं भवति छात्राणाम् इदं जैव-वैविध्योद्यानं प्रति।
परिस्थितिसंरक्षणस्य पाठम् पुस्तकात् बहिः साक्षात् अध्येतुं छात्रेभ्यः सन्दर्भ: लब्धः इत्यस्ति प्राधान्यम्I 'एकर्'चतुषटयवि
स्तृतिरस्ति उद्यानस्य।