भारते 'कोरोण' रोगाणुसङ्क्रमणम् नास्ति- स्वास्थ्यमन्त्रालयः।
- के.वि.रजीष्
नवदहली> विश्वे बहुत्र 'कोरोण' रोगाणुसङ्क्रमणम् जाते सन्दर्भे भारतमपि निरीक्षणं प्रतिरोधसज्जीकरणं च शक्तम् अकरोत्। निरीक्षणसम्बन्धतया ४३ विमानेभ्यः ९५१६ यात्रिकाणां वैद्यनिरीक्षणमकरोत्। तस्मिन् यः कोऽपि कोरोणरोगग्रस्तः इति न दृष्टम् केन्द्रस्वाास्थ्यमन्त्रालयेन स्पष्टीकृतम्। दहली, मुम्बै, कोल्कत्त, चेन्नै इत्यादिषु प्रमुखवैमानिकसङ्केतेषु एव यात्रिकाणां वैद्यनिरीक्षणं सञ्जातम्। अग्रिमदिनेषु अन्येषु प्रमुखकेन्द्रेष्वपि निरीक्षणादिकार्याणां व्यापनं करिष्यतीति मन्त्रालयवक्त्रा सूचितम्। तथापि, चीनदेशे कोरोण रोगाणुग्रस्थानां संख्या १७ अभवत्।