अमेरिक्कायाम् अतिशाक्तेन वातेन ११ जनाः मारिताःI
वाषिङ्टण्> अमेरिक्काराष्ट्रस्य दक्षिणपूर्व प्रदेशेषु आपन्ने प्रचण्डवातेन ११ जनाः मृत्युमुपगताः। टेक्सास्, अलबाम, लूसियान इत्यादि प्रदेशतः मृति: आवेदितः। मिसौरि, ओक्लहोम आदि प्रदेशेषु प्रचण्डवाते महाविनाशः अभवत्। अलबाम, मिसिसिप्पि प्रदेशेषु विद्युत्बन्धः पूर्णतया विनष्टः चI प्रचण्डवातकारणेन उप पञ्चाशत् अन्ताराष्ट्रविमानानां सेवा स्थगिता।