भारते उदग्रछायाग्राहिणः पञ्जीकरणं समारब्धम्I अन्तिमतिथिः जनवरि ३१
नवदिल्ली> आराष्ट्रम् उदग्रछायाग्राहिणः (Dron) जनवरि ३१ दिनाङ्कतः पूर्वं पञ्जीकरणं करणीयं इति व्योममन्त्रालयेन आदिष्टाः। सुरक्षानुबन्धतया भवति नूतनप्रक्रमाः। विगतवर्षस्य गणनानुसारं भारते नियविरुद्धतया ५०००० उदग्रछायाग्राहिणः सन्ति इति अनुमन्यते।
पञ्जीकरण-प्रक्रमानन्तरं सर्वेषां उदग्रछायाग्राहिणाम् पञ्जीकरणसंख्या तथा स्वामित्वसंख्या च लब्स्येते। विना पञ्जीकरणं उदग्रछायाग्राहिणः उपयोगः दण्डार्हः भविष्यतिI पञ्जीकरणम् 'ओण् लैन्' द्वारा 'डिजिट्टल् स्कै' इति अन्तर्जालस्थाने करणीयम्।