चन्द्रयानं ३ - २०२०नवंबर् मासे विक्षिप्यते।
बंगलूरु> तृतीयस्य चन्द्रयानस्य विक्षेपणाय ऐ एस् आर् ओ सज्जायते। २०२० नवंबर् मासे विक्षेपणं भविष्यति इति ऐ एस् आर् ओ संस्थया आवेदितम्। विक्षेपणप्रयोगाय ७५ कोटि रूप्यकाणि अधिकतया दातव्यम् इति भारतसर्वकारः ऐ एस् आर् ओ संस्थया अभ्यर्थितः। आहत्य ६६६ कोटि रूप्यकाणां व्ययः भविष्यति।
चन्द्रयानं २ उपयुज्य चन्द्रस्य दक्षिणध्रुवे अवतीर्य परीक्षणानि कर्तुमेव ऐ एस् आर् ओ संस्थया उद्दिष्टम् आसीत्। किन्तु मुदुलावतरणवेलायाम् अवतारकेन सह विद्यमानः आशयविनिमय-सम्बन्धः क्षणात् पूर्वं विनष्टम् आसीत्I