जनाः शताब्दस्य सूर्यग्रहणं दृष्ट्वा विस्मितवन्तः।
कासरगोड् (केरलम्)> सूर्यग्रहणमिति शताब्दस्य अद्भुतं दृष्ट्वा विस्मितवन्तः जनाः। केरलेषु कासरगोड् जनपदस्थे चेरुवत्तूर् प्रदेशे एव सूर्यग्रहणं सुव्यक्तताया दृष्टम्। पञ्चसहस्राधिकाः (५०००) जनाः ग्रहणं द्रष्टुं समागतवन्तः आसन्। प्रभाते नवाधिक षट्विंशति वादनतः सार्धनव वादन पर्यन्तमासीत् वलयसूर्यग्रहणम् I चतुर्निमेषपर्यन्तमात्रं दीर्घितं वलयग्रहणं दृष्ट्वा जनाः अद्भुत-परतन्त्राः अभवन्I
चेरुवत्तूरं विहाय कोच्ची, कोट्टयं, तिरुवनन्तपुरं नगरेषु ग्रहणं द्रष्टुं वैज्ञानिकरीत्या सज्जता कृता आसीत्।