राहुलगान्धिनः प्रभाषणस्य विवर्तनेन तारायते सफा।
राहुलगान्धिनः प्रभाषणं विवर्तनं कुर्वन्ती सफा फेबिन्। |
मलप्पुरं > केवलैकेन निमेषेन
करुवारक्कुण्ट् सर्वकारीय उच्चतरविद्यालये सफा फेबिन् नामिका 'प्लस् द्वे' विद्यार्थिनी तारपदं प्राप्तवती। स्वविद्यालये शास्त्रपरीक्षणशालायाः उद्घाटनाय आगतः कोण्ग्रस् दलनेता तथा वयनाट् मण्डलस्य सदस्यः राहुलगान्धी स्वकीयाङ्गलप्रभाषणं कैरल्यां विवर्तयितुं छात्रेषु यः को$पि सन्नद्धः वेति सदस्यान् छात्रान् अपृच्छत्। कालविलम्बं विनैव दृढतरपदविन्यासैः दृढमनसा च सफा वेदिकां प्राप्ता। राहुलगान्धिनः प्रभाषणाय तया दत्ता ग्राम्यसुन्दरमलयालपरिभाषा सदस्यैः करघोषेण स्वीकृता। प्रभाषणान्ते सन्तुष्टः राहुलः मधुरं प्रदाय सफायै अभिनन्दनमपि कृतवान्।