चिलिदेशे २०० गृहाणि अग्निना दग्धानि।
वाल् परैसो> क्रिस्तुमस् दिने चिलिदेशस्थे वाल परैसो प्रदेशे आपन्नायां अग्निबाधायाम् उप-द्विशातं गृहाणि दग्धानि। अत्युष्णः वातः च अग्नि सन्तरणस्य कारणम् अभवत्I चिलिदेशस्य विनोद सञचारकेन्द्रः भवति 'वाल् परैसो'। वनाग्निः स्यात् इति इति कारणेन सहस्राधिका: जनाः ततः निष्कासिताःI पञ्चचत्वारिंशदधिकचतुशतं (४४५) एकर् विस्तृता तृणभूमिः अग्निना दग्धा अस्ति। अग्नि नियन्त्रणसेना इदानीमपि अग्निशमनाय प्रयत्नं कुर्वन्तः सन्ति।