उत्तरभारतम् अतिशैत्येन कम्पते।
अतिजाग्रतायाः सूचना प्रख्यापिता।
नवदिल्ली> शतवर्षाभ्यन्तरे समागतात् अधिकशैत्यं भवति अस्मिन् वर्षे। पञ्चदशदिनानि यावत् क्रमानुगतरीत्या अन्तरिक्षोष्णः न्यूनः भवति। अतीवशैत्यः इति हेतोः पर्यावरणविभागेन दिल्यां शोणजाग्रता प्रख्यापिता अस्ति। उत्तरभारतस्य अन्ये राज्याः अपि शैत्यपीडायां वर्तन्ते।
दिल्यां २.८° सेल्स्यस् भवति भानुवासरस्य न्यूनतमं तापमानम्। १९१९ तमे असीत् पूर्वम् एता वत् शैत्यं वर्धितम्। तदा न्यूनतमं तापमानम् १७.३° इत्यासीत्I विमान,रेल्यान, 'रोड्' यानसेवा अपि शैत्येन बाधते। अन्तरिक्षवायुमानकमपि न्यूनतमावस्थायाम् अस्ति। हरियाणस्य तापमानः गतदिने ०.३° इति अतिन्यूनतायाम् असीत्। राजस्थानं- न्यूनं ३°, श्रीनगरं - न्यूनं ५.६°, पहलग्राम् - न्यूनं १२° इति च आसन्I