आर्थिकाभिवृद्धिः केवलं ५% इति रिसर्वबाङ्केन अङ्गीकृतम्।
मुम्बई > अस्मिन् संवत्सरे भारतस्य आर्थिकाभिवृद्धिः प्रतिशतं पञ्चमात्रं स्यादिति भारतीय रिसर्वबाङ्केन [आर् बि ऐ] अङ्गीकृतम्। पूर्वं ६.१% वृद्धिः इत्यासीत् रिसर्वबाङ्कस्य अनुमानम्! राष्ट्रेण अभिमुखीक्रियमाणम् आर्थिकमान्द्यमधिकृत्य अन्ताराष्ट्रिय वित्तसंस्थाभिः, मूल्यनिर्णयनियोक्तृभिश्च [Ratting agency] कृतानां मूल्यनिर्णयानां स्पष्टीकरणमभवत्।