आमसोण् वनानि विनाशं प्राप्नुवन्ति।
ब्रसीलिया> विश्वस्य श्वासकोश इति विख्यातानि ब्रसीलराष्ट्रस्थानि आमसोण् वृष्टिवनानि विनाशं प्राप्नुवन्तीति आवेदनम्। २०१८ ओगस्ट् मासादारभ्य २०१९ जूलाई पर्यन्तं एकेनैव संवत्सरेण दशसहस्राधिकं चतु.कि.मी.परिमितं वनं विविधप्रकारैः नाशं गतमिति ऐ एन् पि ई नामिकया ब्रसील् बहिराकाश गवेषणसंस्थया बहिर्नीते आवेदने स्पष्टीकृतम्।
द्वादशमासैः १०,१०० च.कि.मी प्रदेशस्य वृक्षाः पूर्णतया नाशिताः। गतदशसंवत्सराणां बृहत्तमं वननशीकरणमानमेतदिति सूच्यते। मासद्वयात् पूर्वं सञ्जाते बडवानले महान्तं प्रदेशं विनाशमभवत्।