पर्यावरणशिखरसम्मेलनं पराजयं प्राप्नोति?
मड्रिड् [स्पेयिन्] > अत्र सम्पद्यमानं पर्यावरणशिखरसम्मेलनं अङ्गराष्ट्राणाम् अनैक्येन पराजयं प्राप्स्यतीति शङ्का वर्तते। शुक्रवासरे समाप्यमाणा चर्चा राष्ट्राणां तर्कवितर्कैः शनिवासरे अपि अन्ववर्तत।
पर्यावरणव्यतियानमधिकृत्य राष्ट्राणां मतानि विभिन्नानीत्यतः पर्यावरणसन्धिप्रमाणीकरणाय चर्चा न प्राप्स्यतीति अभिज्ञैरुक्तम्।