काश्मीरे लडाके च द्वौ एयिंस् आतुरालयौ।
-के.वि.रजीष्
श्रीनगर् > काश्मीरे लडाके च द्वयोः एयिंस् आतुरालययोः निर्माणाय केन्द्रसर्वकारस्य अनुमतिः। विषयमिमं केन्द्राभ्यन्तरसहमन्त्री जि.किषन् रेड्डि रेखासहितं लोकसभायां न्यवेदयत्। काश्मीरे लडाके च एयिंस् आतुरालयसहिताः अष्टौ वैद्यकलालयाः अपि संस्थाप्यन्ते इति मन्त्री असूचयत्। दोद, कत्व, बारामुल्ल, अनन्त् नाग्, रजौरी, उद्दंपूर्, हन्द्वारा इत्यादिषु प्रदेशेषु वैयकलालयानां निर्माणप्रवर्तनानि आरब्धानि इत्यपि सः सभां न्यवेदयत्। जम्मूकाश्मीरस्य तथा लडाकस्य च समग्रविकासाय मोदिसर्वकारः प्रतिज्ञाबद्धः एवेति मन्त्री अवदत्।