विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे भारतस्य तुल्यता।
कोल्कत्ता > खत्तर् मध्ये सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे बङ्ग्लादेशं प्रति भारतस्य तुल्यता (१-१)। क्रीडायाः अन्तिमवेलायां ८९ तमे निमेषे भारताय आदिल्खान् तुल्यतायै लक्ष्यं प्रापयत्। प्रथमपादे ४२ तमे निमेषे साद् उदिन् बङ्गलादेशाय लक्ष्यं प्रापयत्। तेन लक्ष्येण बङ्गलादेशः विजयं प्रतीक्षयन् समये आसीत् भारतरक्षकत्वेन आदिल्खानस्य अविश्वसनीयं प्रकटनम्।