केरलेषु संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्।
|
कोष़िक्कोट् जनपदस्य प्रतिषेधमेलनम्। |
कोच्ची > संस्कृतशिक्षकैः अनुभूयमानां विविधानां समस्यानां परिहाराय केरलेषु केरला संस्कृताध्यापकफेडरेषनस्य (के एस् टि एफ् डि&पि) नेतृत्वे
संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्। सर्वास्वपि जनपदेषु शैक्षिकोपनिदेशककार्यालयं केन्द्रीकृत्य आसीत् प्रतिषेधः।
|
एरणाकुलम् जनपदस्य मेलनम् |
प्राथमिकस्तरे अध्यापकनियुक्तिः, सर्वेषु विद्यालयेषु संस्कृताध्ययनाय छात्रेभ्यः अवसरकल्पनं, अंशकालीनाध्यापकानां
भविष्यनिधेः (provident fund) पुनःस्थापनं, भाषा
शिक्षक-छात्रसंख्यानुपातसंग्रहः,
जनपदस्तरीयेषु शैक्षिकपरिशीलनकेन्द्रेषु संस्कृविभागस्यारम्भः इत्यायारभ्य विविधानां त्रयोदश (१३) समस्यानाम् उचितः परिहारः सर्वकारेण कार्यः इति अभ्यर्थ्य आसीत् प्रतिषेधदिनाचरणम्। प्रतिषेधमेलनेषु के एस् टि एफ् डि&पि नेतारः नेतृत्वम् अवहन्।