षट् विदेशराष्ट्राणि महात्मा गान्धिनः विशेषचित्रमुद्रा प्रकाशिता।
वेस्ट्बाङ्क्> महात्मा गान्धिनः १५० तम जन्मसंवत्सरानुबन्धतया विविध विदेशराष्ट्रैः पत्रालय-चित्रमुद्राः प्रकाशिताः। तुर्कि, पालस्तीनः, उस्बेक्किस्थानः, लेबननः, मोरोक्को फ्रान्सः च भवन्ति पत्रालयीय चित्रमुद्रिकां प्रकाश्य महात्मागान्धिनं समादृतवन्तः राष्ट्राणि।
'विशेषव्यक्तयः' इति विभागे संस्थाप्य आसीत् उस्बक्किस्थान-तुर्की राष्ट्रयोः चित्रमुद्रायाः प्रकाशनम्। पालस्तीनः तु पैतृकं मूल्यं च इति विभागे निवेश्य असीत् गान्धिनम् प्रति आदर-प्रकाशनम्। पलस्तीनस्य सूचना एवं प्रौद्योगिकी मन्त्री इषाख् सेदर् गान्धिनः चित्रमुद्रा प्रकाशितवान्।