भारतस्य रूप्यकपत्रस्य २००० इत्यस्य निलीनप्रवेश: - प्रभवकेन्द्रं पाकिस्थानः।
नवदिल्ली> भारतस्य २००० इति रूप्यकपत्रस्य व्याजपत्राणि पाकिस्थानीयेन भीकरदलेन निर्मितानि। सुरक्षानुबन्धतया कृतान्वेषणे विशेषान्वेणसंघेन पाकिस्थानस्य बन्धः प्रत्यभिज्ञातः। डि सि पि प्रमोद सिंह कुश्वन्तस्य नेतृत्वे विद्यमानेन अन्वेणसंघेन पाकिस्थानीय चारसंघस्य ऐ एस् ऐ इत्यस्य प्रधानप्रतिनिधिः दिल्लीस्थ नेहृपालस् इत्यस्य समीपतः गृहीतः। अज्ञावासिनः अधोलोकप्रवर्तकस्य महापातकिनः च दावूद् इब्राहिमस्य 'D' इति उद्योगसंस्थायाः प्रतिनिधिः भवति अस्लम् अन्सारिः। अस्य पार्श्वतः ५.०५ लक्षं रूप्यकाणां मूल्यभूतं २००० रूप्यकस्य व्याज रूप्यकपत्राणि बलेन गृहीतानि। भारतात् पलायितः दावूद् इब्राहिमः तस्य 'D' इति संस्था च भवतः व्याज रूप्यकपत्र-वितरणे ऐ एस् ऐ इत्यस्य प्रधानमध्यवर्तितिनौ। 'D' इत्यस्य केन्द्रकार्यालयः पाकिस्थाने कराची नगरे एव वर्तते।