लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य परिशीलकः।
अफ्गानिस्थान् > दक्षिणाफ्रिकादलस्य भूतपूर्वक्रीडकः लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य प्रशिक्षकत्वेन नियुक्तः। अफ्गानिस्थानदलस्य परिशीलकस्थानं प्रति लब्धेभ्यः पञ्चाशत् आवेदनेभ्यः एव क्लूस्नरस्य नियमनमभवत्। नवम्बर् मासे जायमाना वेस्ट् इन्टीस् परम्परा क्लूस्नरस्य प्रथमदाैत्यं भवति।