चान्द्रदौत्यस्य न फलप्राप्तिः ; निराशया भारतं वैज्ञानिकलोकश्च।
बेङ्गलुरु > भारतस्य अभिमानपरियोजना चन्द्रयानं - २ न लक्ष्यं प्राप्ता। चन्द्रस्य २ कि मी. निकटे प्राप्ते सति लान्डरात् सन्देशाः न लब्धाः। दिशाव्यतियानम् अभवत् द्रुतपतनम् अभवद्वा इति सन्देहः।
मृदुपतनसोपानस्य अन्तिमनिमेषं यावत् शास्त्रज्ञानां सर्वेषां भारतीयानां च प्रतीक्षां सफलीकृत्य सर्वं लान्डरस्य प्रवर्तनं पूर्वनिश्चितरूपेण सम्पन्नम्। किन्तु अन्तिमे निमेषे लान्डरात् भूमिं प्रति सन्देशाः संपर्काः स्थगिताः जाताः। तस्य किमभवदिति निर्णेतुं तदा न शक्यते स्म।