भारते राष्ट्रियाभयम् अभ्यर्थयन् पाकिस्थानस्य भूतपूर्वसामाजिकः।
चण्डीगढ् > पाकिस्थानस्य भूतपूर्वः सामाजिकः बलदेवकुमारः भारतं राष्ट्रियाभयम् अयाचत। पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन नेतृत्वमावहतः 'तेहरी के इन्साफ्' नामकस्य राजनैतिकदलस्य अङ्गः भवति बलदेवः। ओगस्ट्मासादारभ्य पत्न्या भावनया अपत्यद्वयेन च सह पञ्चाबस्थे खन्ना नामके स्थाने बन्धुगृहे एव तस्य इदानींतनवासः।
हिन्दुधर्मीकः इत्यतः पाकिस्थानम् अधिवासः आपच्छङ्काम् उत्पादयतीति सः वदति।