आतङ्कवादिनां कृते निवृत्तिवेतनं दीयमानं एकंं राष्ट्रं भवति पाकिस्थानः - इम्रान खानस्य वक्त्रं वक्रीकृत्य भारतम्।
न्यूयोर्क् > पाकिस्थानस्य प्रधानमन्त्रिणा इम्रानखानेन यू एन् सार्वजनिक सभायां कृतस्य प्रभाषणस्य भारतं शक्तया भाषया प्रत्युत्तरमदात्। इम्रानस्य वाक् कस्यचित् राष्ट्रतन्त्रज्ञाय न युज्यते, युद्धमुख-प्रेषणमेव अस्य फलम् इति भारत विदेशकार्यसचिवा विधिषा मेय्त्रा यू एन् सभायाम् अवदत् ।यु एन् समित्याः तीव्रवादपट्टिकायाम् अन्तर्गताः १३० आतङ्कवादिभ्यः २५ आतङ्क सङ्घटनायै च अभयप्रदाता भवति पाकिस्थानः । आतङ्कवादिने निवृतवेदनं प्रदास्यमानः राष्ट्रः भवति पाकिस्थानः इति सा यु एन् सभायाम् अवदत्।