चन्द्रयानं - २ पृथ्वीभ्रमणपथात् चन्द्रयात्राम् आरभत।
बेङ्गलुरु > भारतस्य द्वितीयं चान्द्रपर्यवेषणोपग्रहपेटकं 'चन्द्रयानं -२' पृथिव्याः भ्रमणपथात् चन्द्रोपग्रहं लक्ष्यीकृत्य प्रयाणमारभत। भ्रमणपथपरिवर्तनं [Trans Lunar Injunction] विजयकरमासीदिति ऐ एस् आर् ओ वक्त्रा उक्तम्।
अद्य उषसि ३.३०वादने भमणपथोन्नयनं सम्पन्नम्। चन्द्रयानं - २ आग.२० तमे चन्द्रस्य भ्रमणपथं प्राप्स्यति। तदा दौत्यपेटकं चन्द्रस्य प्रभाववलयाधीनं भविष्यति। ततः ६ दिनैः पेटकं चन्द्रस्य दूरतमं भ्रमणपथं प्रापयिष्यति। क्रमशः चन्द्रात् १०० कि. मी परिमितं दूरं प्रापयितव्यम्। ततः सेप्तं. ७ तमे दिनाङ्के चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकं अवतरिष्यति।