पाकिस्थानस्य सैनिकानां मृतशरीराणि स्वीकृत्य नेतव्यानि इति भारतम्।
प्रत्युत्तरं विना पाकिस्थानः।
श्रीनगरम्> भारतसैन्येन मारितानां पाकिस्थानीय-सैनिकानां मृतशरीराणि स्वीकृत्य स्वदेशं प्रति नेतव्यानि इति भारतेन पाकिस्थानः अभ्यर्थितः। किन्तु पाकिस्थानस्य पक्षतः प्रत्युत्तरं न लब्धम्। पाकिस्थानस्य 'बोर्डर् आक्षन् टीम्' इत्यस्य अङ्गाः भवन्ति एते मृताः सैनिकाः। जूलै मासस्य ३१ दिनाङ्गे रात्रौ आगस्त १ दिनाङ्के उषाकालात् पूर्वं च आसीत् भारतसैनिकान् प्रति पाकिस्थानस्य आक्रमणः। युद्धे पाकिस्थानस्य चत्वारः सैनिकाः मारिताः इत्यस्ति आवेदनम्।