काश्मीर् अधित्यका शान्तिमधिगच्छति।
श्रीनगरं > जम्मूकाश्मीरस्य जम्मू, कठुवा, साम्बा, उधंपुरं, रियासि जनपदेषु निरोधाज्ञां निराकरोत्। तत्रत्याः विद्यालयाः अध्ययनाय उद्घाटिताः। सर्वकारकार्यालयेषु अधिकाः सेवकाः कार्यार्थमुपस्थिताः। आपणानि विपण्यश्च सजीवतां प्राप्ताः। गतागतानि च साधारणस्थितिमवाप्तानि।
डोडा, किष्त्वर् जनपदयोः निशानियमे लघुत्वमकरोत्। किन्तु पूञ्च्, रजौरि, रम्बान् जनपदेषु नियन्त्रणानि अनुवर्तन्ते।