जम्मु-काश्मीरस्य सचिवालयात् राज्यध्वजस्य निर्मार्जनं कृत्वा भारतस्य त्रिवर्णध्वजः आरोपितः
श्रीनगरम्> अनुच्छेदः ३७० इत्यस्य निष्कासनानन्तरं जम्मुनगरस्थ सचिवालयात् राज्यध्वजः अपि निष्कासितः। स्थानेऽस्मिन् भारतराष्ट्रस्य त्रिवर्णध्वजः आरोपितः। सर्वकारस्य विविध-विभागेभ्यः पूर्वस्मिन् दिनेषु राज्यध्वजः निष्कासितः आसीत्। जमुकाश्मीरस्य शासनकेन्द्रः नागरिक-सचिवालयः ( Civil Secretariat) श्रीनगरे एव वर्तते।