काश्मीर् इतःपरं सर्वप्रकारेण भारतराष्ट्रप्रदेशः।
विशिष्टं पदं दीयमानं 'अनुच्छेदः ३७०' प्रत्यादिष्टः।
काश्मीरः द्विधा विभक्तः - जम्मुकाश्मीरः लडाकश्च
नवदिल्ली > केन्द्रसर्वकारस्य अप्रतीक्षितेन नाटकीयेन च केनचित् पदक्षेपेण जम्मु काश्मीरराज्याय सविशेषं पदं दीयमानः शासनसंहितायाः ३७० इत्यनुच्छेदः निरस्तः। अपि च राज्यं जम्मु काश्मीरः, लडाकः इति केन्द्रशासनप्रदेशरूपेण द्विधा विभक्तुं निश्चितम्। अनुच्छेदनिरासविधायकं राष्ट्रपतेः विज्ञापनं राज्यसभया अङ्गीकृतम्। तथा च राज्यस्य पुनःसंघटनाविधेयकं च सभया अङ्गीकृतम्।