आतङ्कवादः, अतिक्रम्य प्रवेशः; राष्ट्रसुरक्षां शक्तीकर्तुम् जम्मु काश्मीरे आधारपत्रं व्यावहारिकं करिष्यति।
नवदिल्ली> राष्ट्रसुरक्षानुबन्धतया जम्मुकाश्मीरे व्यावहारिकतले अपि आधारपत्रम् उपयोक्तुं केन्द्रसर्वकारेण निश्चितम्। आधारपत्र-पञ्जीकरणं यदा पुर्णं भविष्यति तदा अविहित मार्गेण आगतान् तथा भीकरप्रवर्तकान् च सम्पूर्णतया निवारयितुम् शक्यते इति सर्वकारेण सूच्यते। अधारपञ्जीकरणेन जनेभ्यः सर्वकारस्य क्षेमयोजनायाः गुणफलानि यथाकालं लप्स्यन्ते। ७८% आधारपञ्जीकरणम् अधुना सम्पन्नम् अस्ति।