अमेरिक्कादेशं प्रति 'एयर् इन्डिया'याः साक्षात् विमानसेवारम्भः आग.१५ तमदिनाङ्के।
नवदिल्ली > उत्तर अमेरिक्कादेशं प्रति एयर् इन्डिया विमानसेवासंस्थायाः प्रथमा साक्षाद्विमानसेवा भारतस्वातन्त्र्यदिने [आगस्ट् १५] समारभ्यते। उत्तरध्रुवस्य उपरि विद्यमानेन व्योममार्गेणैव एयरिन्डियाविमानानि डयमानानि स्युः। इन्धनोपभोगस्य यात्राकालस्य च लघूकरणं, सेवकानां कार्यक्षमताप्रबलीकरणं , कारबणिकवस्तूनां बहिर्गमनव्याप्तेः न्यूनीकरणमित्यादीनि लक्ष्यीक्रियन्ते। सेवायै भारत-अमेरिकाव्योमयानमन्त्रालययोः अनुमतिः लब्धा अस्ति।