असमस्य देशीय-पौरत्वपट्टिका आगस्तमासस्य ३१ दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयः।
नवदिल्ली> असमस्य राष्ट्रिय-पौरत्वपट्टिका आगस्तमासस्य एकत्रिंशत् (३१) दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयेन आदिष्टम्। आधार-पत्रविवरणानां कृते कियन्मात्रं परिरक्षा दीयते तावत् पौरत्व-पट्टिकायाः कृतेऽपि करणीया इत्यपि न्यायालयेनादिष्टा।
असमराज्ये कृता अनधिकृताधिनिवेशं निरस्तुं केन्द्र-सर्वकारेण आयोजिता भवति पौरत्व पट्टिका। बंगलादेशतः लक्षश: जनाः असमम् आगच्छन्ति इति ज्ञात्वा केन्द्रसर्वकारेण आयोजिता भवति इयं देशीयपौरत्वपट्टिका I