प्रलयताण्डवम्। चतुर्दिनाभ्यन्तरे चतुर्षु राज्येषु १४२ जनाः मारिताः
नवदिल्ली> चतुर्दिनाभ्यन्तरे प्रलयदुर्दशया चतुर्षु राज्येषु १४२ जनाः कालकबलीभूताः अभवन्। केरलं, कर्णाटकं, गुर्जरं, महाराष्ट्रं च भवति एते राज्याः। अतितीव्रवृष्ट्या जलोपप्लवे च बहुविधनष्टं जातम्। कर्णाटकं २४, केरलं ६०, गुर्जरं २२ च मृताः। भूभ्रंशेन पतितानां मृत्-पाषाण-घण्डानाम् अधः जनाः बद्धाः वर्तन्ते। रक्षा प्रवर्तनानि प्रचलन्त्यनस्यूतम्। शक्ता वर्षा पुनरपि स्यात् इति केन्द्र वातावरण निरीक्षण केन्द्रेण निगतितं वर्तते।