चन्द्रयानविक्षेपः व्याक्षिप्तः , साङ्केतिकदोष इति सूचना।
श्रीहरिक्कोट्टा > भारतस्य द्वितीयस्य चान्द्रदौत्यस्य प्रारम्भविघ्नः। विक्षेपमुहूर्तात् एकखण्डायाः पूर्वं विक्षेपः परिवर्तितः। इन्धनकासारे अनुभूतः दोष एव कारणमिति सूच्यते। अद्य उषसि २.५१ वादने आसीत् चन्द्रयानं - २ इत्यस्य विक्षेपः निश्चितः।