अतिवृष्ट्या जलप्लवे रेल्यानं स्थगितम्। ७०० यात्रिकाः याने बद्धाः अभवन्।
बदल् पुरम्> महाराष्ट्रे जायमानायाम् अतितीव्रवृष्ट्यां महालक्ष्मी रेल्यानं जलप्लवमध्ये आबद्धम्। ७०० जनाः रेल्याने अनशनतया पानीयं विना बन्धिताः सन्ति। यात्रिकानां सुरक्षायै द्वे सैनिकोदग्रयाने, राष्ट्रिय दुरन्तनिवारणसेनायाः षट् नौकायानानि च दुरन्तस्थानं प्राप्तानि। मुंबैतः ७० कि मी दूरे भवति थटनायाः स्थानम्। रेलयानं परितः षट्पाद-परिमितोन्नत्यां वृष्टिजलं निभृतम्। शुक्रवासरे रात्रौ आरम्भ सार्वजनिक-माध्यमेषु यात्रिकाः जीवरक्षायै न्यवेदनानि प्रकाशितानि।