मस्तिष्के निवेष्टुं नाडीबन्धिधित-सङ्गणकशलाका निर्मिता।
मस्तिष्कं यन्त्रान् च मिथः बन्धनीयः इति लक्ष्यीकृत्य इलोण् मस्कस्य नेतृत्वे आरब्धः अनुसन्धानयोजनाः सफलतां प्राप्स्यन्ते। केशादपि लघुतमा 'इलक्ट्रोड्' सूत्राणि उपयुज्य मनुष्यस्य मस्तिष्के सङ्गणक-शालाकायाः बन्धनं कुर्वन्ति। काल-कालान्तरं यावत् विना साहायं प्रवर्तते इयम्। अन्येषां साहाय्येन जीवनं यापयतां शारीरिकक्लेशेन पीडितानां कृते स्वस्य उपकरणानि यथेच्छं प्रवर्तयितुं शक्यते अनया योजनया।
'न्यूरा लिङ्क्' इति संस्थया निर्मितानि एतानि विशेषसूत्राणि विवरण-वितरणे अतिक्षमतायुक्तानि भवन्ति। एतस्य प्रथमाग्राणि 'एन् वण्' इति सङ्गणकशलाकायां ( chip) सुबद्धानि भविष्यन्ति। द्वितीयाग्राणि मस्तिष्कस्य विशेषभागेषु च संबद्धानि भविष्यन्ति। अनन्तरं मस्तिष्कस्य बहिः लघु उपकरणमपि संबन्ध्य विवरणानि वितरिष्यन्ति। विद्युत्-तरङ्गानुपयुज्य भवति अस्य उपकरणस्य टङ्कितांश-वितरणम्।