जलं न अवसीयते रेल्याने - केन्द्रसर्वकारः।
नवदिल्ली> रेल् यात्रिकैः अभिमुखी क्रियमाणा समस्या भवति जलदौर्लभ्यः। जलदौर्लभ्यस्य परिहाराय केन्द्रसर्वकारः नूतनं पदक्षेपं करिष्यति। यात्रा वेलायां जलपूरणाय सम्मर्द-जलोत्क्षेपणी संस्थाप्यते इति केन्द्र-रेलयानमन्त्री पीयूष् गोयलः अवदत्। रेलयानान्तर्गतानि जलसंभरणानि यात्रावेलायां त्वरितवेगेन पुनःपूरणीयानि। तदर्थमेव भवति सम्मर्द-जलोत्क्षेपणी। पेयजलाय रेल् निस्थानेषु शुद्धजलनिर्माण ( R. O) स्थानानि स्थानानि स्थापयन्तः सन्ति। राज्यसभायां सभाङ्गस्य बिनोय् विश्वस्य प्रश्नोपरि समाधानरूपेण मन्त्रिणा पियूष् गोयलेन उक्तम् इदम्।