भारतस्य विश्वचषकाश्वमेधाय विजयेन प्रारम्भः।
सताम्टण् [इङ्लेण्ट्] > क्रिक्कट् क्रीडायां विश्वं जेतुं भारतस्य अश्वमेधः विजयारवेन प्रारब्धः। ह्यः अत्र 'रोस् बौल्' क्रीडाङ्कणे दक्षिणाफ्रिक्काराष्ट्रेण सह सम्पन्नायां भारतस्य प्रथमस्पर्धायां 'कोह्लिबलं' ६ क्रीडकैः विजयीभूतम्।
निश्चिते ५० प्रक्षेपचक्रे दक्षिणाफ्रिक्कादलेन २२७ धावनाङ्कानि समाहृतानि। तदनन्तरं कन्दुकताडनमारब्धवन्तः भारतक्रीडकाः चतुर्णां क्रीडकानां विनष्टेन ४७.३ प्रक्षेपचक्रैः विजयपदं प्रापुः।