१३ सैनिकैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्।
नवदिल्ली> असमस्थात् जोर्हट् प्रदेशात् १३ सैनिकैः सह अरुणाचलप्रदेशं गतवत् भारतव्योमसेनायाः "आन्टनोव् ए एन् - ३२" नामकं विमानम् अप्रत्यक्षमभवत्। ह्यः मध्याह्ने १२.३० वादने उड्डयनानन्तरं एकवादने विमानंप्रति विनिमयः स्थगितः।
सुखोय् ३०, सि १३० विमानैः सह भूतलसेना इन्तो-टिबटन् आरक्षकबलं, अरुणाचलारक्षकाः इत्यादयः अन्वेषणमारब्धवन्तः।