निपा स्थिरीकृता ; केन्द्रसाहाय्यः वाग्दत्तः।
कोच्ची > केरले एरणाकुलं जनपदस्थे आतुरालये 'निपा'वैरसाणुबाधासन्देहेन प्रविष्टे छात्रयुवके बाधा स्थिरीकृता। पूनादेशस्थात् 'देशीय वैरसाणुगवेषण संस्थानात्' आतुरस्य रक्तस्रवादीनां परिशोधनफलेनैव अयं निपाबाधितः इति प्ररूढीकृतः। ततःपरं केरलस्य स्वास्थ्यविभागः अतीवजाग्रतया प्रवर्तते।
रोगिणम् अतिसामीप्यवर्तिताः ५ जनाः ज्वरबाधया कलमश्शेरीस्थे सर्वकारातुरालये अनन्यसम्पर्कविभागे [Isolation ward] सूक्ष्मनिरीक्षणे वर्तन्ते। तेषां रक्तस्रवादयः परिशोधनायै समर्पिताः।
तथा च केन्द्रस्वास्थ्यमन्त्रिणः हर्षवर्धनस्य नेतृत्वे केरलस्य सविशेषावस्थाः विशकलिताः। केरलं प्रति वैद्यसङ्घं प्रेषयितुं पदक्षेपाः स्वीकृताः।
रोगिणः अवस्था तु इदानीं समीचीना वर्तते।