षोपियान् प्रदेशे संघर्षः- द्वौ भीकरौ सेनया मारितौ।
श्रीनगरम्> जम्मुकाश्मीरस्थ षोपियाने भीकरदलसुरक्षासेनयोः मिथः सङ्घर्षः प्रवृत्तःI द्वौ आतङ्किनौ सेनया निहतौ। अद्य मङ्गल वासरे उषसि अवनीरा मण्डले आसीत् सङ्घर्षः। प्रदेशस्मिन् आतङ्किनः छन्नः तिष्टन्तः इति गुप्तविवरणस्य आधारे सुरक्षासेनया अन्वेषणम् आरब्धम् । तदा निलीय स्थिताः आतङ्किनः सुरक्षासैनिकान् प्रति नालिकाशस्त्रं प्रयुक्तवन्तः। सन्दर्भेऽस्मिन् प्रवृत्ते परस्पर गोलिकाप्रहरे एव द्वौ आतङ्किनाै निहतौ। शस्त्राणि, विस्फोटक वस्तूनि च सेनया ग्रहीतानिI भीकरौ केषु आतङ्किदलेषु विद्यमानौ इति प्रत्यभिज्ञानं नाऽभवत्।