जम्मुकाश्मीरे ५ मासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः
नवदिल्ली> संवत्सरेस्मिन् जनवरिमासतः मेय् मासपर्यन्तं पञ्चमासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः। गणनाङ्कः सेनया बहिः प्रकाशितः। १०१ आतङ्किषु २३ विदेशीयाः ७८ प्रादेशिकाः च अन्तर्भवन्ति। विगतः मार्च् मासतः ५० युवानः विविधेषु आतङ्कपरिपोषण-केन्द्रेषु प्राप्ताः इति गणितद्वारा सेनया व्यक्ततया आवेदितम्। किन्तु आतङ्किदलसमाहरणं कुर्वन्तं प्रत्यभिज्ञाय नाशं कर्तुं प्रयतते सेनया।
काश्मीरस्य आतङ्कवादं समापयितुं नूतनमार्गाः अन्विष्यन्ते सेनया। तरुणेभ्यः तेषां कुटुम्बेभ्यः विशेषतया शिक्षां प्रदातुम् इदानीं सेनया आलोच्यते।