बिहारे मन्त्रिमण्डलविस्तार:
-पुरुषोत्तमशर्मा, नव दिल्ली।
पटना> बिहारराज्ये मुख्यमन्त्री नीतीशकुमारः अद्य स्वीये मन्त्रिमण्डले विस्तारं करिष्यति। राज्यस्य त्रयाणां मन्त्रिणां पदत्यागानन्तरम् इमानि पदानि रिक्तानि सञ्जातानि। पदत्रये नूतनविधायकानां मन्त्रित्वेन चयनं सम्भविष्यति। अवधेयमस्ति यत् अचिरमेव सम्पन्नेषु लोकसभानिर्वाचनेषु विजयानन्तरं राजीवरञ्जनसिंह: पशुपतिकुमारपारसः अथ च दिनेशचन्द्रयादव: स्वपदत्यागं कृतवन्त:।