वार्तामुक्तकानि।
एस् एस् एल् सि फलं श्वः।
अनन्तपुरी > केरले मार्च्मासे सम्पन्नायाः दशमीकक्ष्यापरीक्षायाः [एस् एस् एल् सि] फलं श्वः अपराह्ने द्विवादने प्रकाशयिष्यते। www.results.kite.Kerala.gov.in , keralapareekshabhavan.in ,.Kerala.gov.in इत्येतेतैः सङ्केतैः saphalam 2019 इति 'मोबाइल आप्' द्वारा च फलं ज्ञातुं शक्यते।
वैद्यकप्रवेशपरीक्षा अद्य अपराह्ने।
अनन्तपुरी > वैद्यक - वैद्यकानुबन्धविषयकाध्ययनक्रमाणां कृते योग्यताप्रवेशपरीक्षा [नीट् - National Eligibility cum Entrance Test] अद्य अपराह्ने द्विवादनादारभ्य पञ्चवादनपर्यन्तं विविधस्थानेषु सम्पत्स्यते। परीक्षार्थिनः मध्याह्ने १२.३० वादने परीक्षाकेन्द्रं प्राप्तुमर्हन्ति।
फोनी - मरणानि १२ ; चक्रवातः पश्चिमवंगं प्राप्तः।
भुवनेश्वरं > ओडीषायां संहारताण्डवं कृतवता फोनी चक्रवातेन मृतानां संख्या १२ अभवत्। पुनरधिवासप्रवर्तनानि द्रुतगत्या प्रचलति। ह्यः दुर्बलः जातः फोनी पश्चिमवंगराज्यं प्राविशत्। अतिवृष्टिः अनुवर्तते।