भुवनेश्वरं > दशकद्वयानन्तरं भारतं मथनं कृत्वा वीजिते फोनी चक्रवाते ओडीषायां व्यापकानि नाशनष्टानि जातानि। गतदिने प्रभाते नववादने तीरनगरं पुरी प्राप्तः फणार्थकः 'फोनि' नामकः अयं १७५ कि मी प्रवेगमावहन् पुरीनगरे भुवनेशरे च सहस्रशः गृहाणि वृक्षान् च भूमौ अपातयत्। अस्य रौद्रेण त्रयाणां जनानां प्राणाः विनष्टाः अभवन्।
चक्रवातान्वागतायां महद्वृष्ट्यां ग्रामाः नगराणि च जलनिमग्नान्यभवन्। किन्तु चक्रवातस्य रौद्रतां पूर्वमेवाभिज्ञाय ११ लक्षं जनाः सुरक्षितस्थानानि नीताः इत्यतः जीवहानि न्यूनातिन्यूनमभवत्।
पुरी , भुवनेश्वारादिषु जनपदेषु विद्युत्-वार्ताविनिमय संविधानानि पूर्णतया विशीर्णानि। रेल् यानगतागतानि दिनद्वयं यावत् निरस्तानि। ओडीषा, आन्ध्रप्रदेशः, वंगः इत्येषु राज्येषु महती वृष्टिः अनुवर्तते।