उतरकोरियेन पुनरपि अग्निबाणः परीक्षितः।
सोल> उतरकोरियः पुनरपि अग्निबाणं परीक्षितवान् इत्यस्ति नूतनम् आवेदनम्। शनिवासरे प्रातः राष्ट्रस्य पूर्वसीमायाम् आसीत् ह्रस्वदूर अग्निबाणस्य परीक्षणप्रयोगः। किन्तु गतिनियन्त्रितबाणः वा इति सूचना न लब्धा। दक्षिणकोरियेन एव इमा वार्ता प्रकाशिता। उत्तरकोरियस्य प्रयोगान् अधिकृत्य अमेरिक्कया सह सूक्ष्ममांशविवरणचर्चा प्रचलति इति दक्षिणकोरियेनोक्तम्।
अनुनयभाषणानन्तरम् सर्वण्यपि अणु-अग्निबाणपरीक्षणात् प्रतिनिवर्तितः आसीत् उत्तरकोरियः। किन्तु इदानीं वाग्दानलङ्धनं कृतम् इति दक्षिणकोरियेन उक्तम्।