मतदानगणना अद्य ; राज्यानां कृते जाग्रतानिर्देशः।
नवदिल्ली > लोकसभानिर्वाचनस्य जनविधिः कीदृश इति अद्य मध्याह्नेन ज्ञातुं शक्यते। मतगणना प्रभाते अष्टवादने अारभ्यते। प्रारम्भफलसूचनाः उपनववादनेन लभ्यते।तथा च राष्ट्रस्य विविधराज्येषु सङ्घर्षसाध्यता वर्तते इत्यतः अतावजाग्रता परिपालनीया इति केन्द्रगृहमन्त्रालयेन निर्देशः कृतः। राज्यानां मुख्यकार्यकर्तारं तथा आरक्षकाधिकारिणं च एतदधिकृत्य निर्देशः कृतः इति मन्त्रालयाधिकृतैरुक्तम्।