ममतायै हताशा- राजीवकुमारस्य ग्रहणं विरुद्ध्यादेशः प्रतिनिवर्तितः।
नवदिल्ली> शारदा 'चिट्स्' अलीकव्यवहारानुबन्धतया कोल्कात्ता भूतपूर्व कम्मीषणर् राजीवकुमारः बन्धितः भविष्यति। तस्य ग्रहणे पूर्वकृत-निवारणादेशः न्यायालयेन प्रतिनिवर्तः। सप्ताहानन्तरं व्यवहारप्रक्रमान् अनुसृत्य पुरतो गन्तुं सि बि ऐ संस्थायै अनुज्ञा प्रदत्ता। राजीवकुमारं स्वाधीने पालयितुं सि बि ऐ दलेन सर्वोच्च न्यायालये याचिकां दत्तम् आसीत्I एषः राजीवकुमारः व्यवहारस्य अपराधसंबन्धितानि प्रमाणानि नाशं कृतवान् अन्वेषणाय सः सहयोगः न ददाति इत्यस्ति सि बि ऐ संस्थायाः उपक्षेपः। बंगाल् मुख्यमन्त्रिणी ममता बानर्जी इत्यस्याः समीपवर्ती भवति राजीवकुमारः। अतः तं प्रश्नविचारणां कर्तुं आरक्षकनियन्त्रणे स्थापयितुं सि बि ऐ कृते बाधा आसीत्| फेब्रुवरि ५ पर्यन्तं तं आरक्षकनियन्त्रणे स्थापयितुं सर्वोच्च न्यायालयस्य बाधा आसीत् । सा इदानीं व्यस्था अभवत्।
'शारदा धनकार्य' प्रकरणे अन्वेषणस्य उत्तरदायी आसीत् एषः। किन्तु सः अलीकस्य प्रमाणानां नाशम् अकरोत्। सङ्गणकयन्त्राण्यपि स अपराधसंबन्धिनां प्रमाणानां नाशं कृतवान् इति सि बि ऐ संस्थया सर्वोच्चन्यायालये निवेदितम्।