केरलमपि आत्मघातिनां लक्ष्यः इति रहस्यप्रकाशनम्।
कोच्ची > श्रीलङ्कायां कृतम् आत्मघातिभीकराक्रमणमिव केरले अपि स्फोटनपरम्परां चालयितुं भीकराः चिन्तितवन्त इति सत्यप्रस्तावः। श्रीलङ्कास्फोटने भागभागिति सन्देहेन एन् ऐ ए संस्थया गृहीतात् पालक्काट् प्रदेशीयात् रियास् अबूबक्कर् नामकादेव ईदृशः प्रस्तावः अभवत्।
कोच्चिम् अभिव्याप्य बहुषु स्थानेषु स्फोटनं कर्तुमासीत् निश्चयः। स्फोटकानां सञ्चयनाय निर्देशः कृतः। किन्तु सङ्घाङ्गेषु केषाञ्चन मतवैरुध्येन योजना न संवृत्ता।
कोच्यामपि अतिजाग्रता
कोच्ची भीकराणामागामी लक्ष्य इति गुप्तचरविभागस्य पुर्वसूचनामनुसृत्य प्रदेशस्थेषु मुख्यस्थानेषु सुरक्षां शक्तीकर्तुं निर्देशः। तीरदेशः, अन्ताराष्ट्रविमाननिलयः, कोच्ची तैलशुद्धीकरणशाला, आर्थिकमण्डलं, रिसर्व बैंक् कार्यालयः इत्यादिषु स्थानेषु सुरक्षाक्रमीकरणं तीव्रं कारितम्।