मुख्यन्यायाधीशं विरुध्य गूढालोचनारोपः - भूत. न्याया. ए के पट्नायिकः अन्वीक्ष्यते।
नवदिल्ली > भारतसर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं रञ्जन् गोगोय् वर्यं विरुध्य उद्भूतस्य लैङ्गिकारोपस्य नेपथ्ये उच्यमाणां गूढालोचनाम् अधिकृत्य अन्वेष्टुं भूतपूर्वन्यायाधीशस्य ए के पट्नायिकस्य नेतृत्वे सङ्घः नियुक्तः। मुख्यन्यायाधिपं विरुध्य प्रवर्तयितुं केचन स्वामभ्युपागच्छन्निति उत्सवसिंहबयिन्स् नामकेन नीतिज्ञेन समर्पितस्य लेखस्य आधारे एवायं पदक्षेपः।
अन्वीक्षणे सि बि ऐ, एे बि, ऐ एन् ए इत्यादिसंस्थानां साहाय्यम् अपेक्षितम्।